उत्तम चरित

नेपाली विकिपुस्तकबाट, स्वतन्त्र पुस्तकालय
Jump to navigation Jump to search

अथ उत्तमचरितम्
अथ ध्यानम् घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः

सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् .
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् .. ..


अथ पञ्चमोऽध्यायः ..
ॐ ऋषिरुवाच .. १..
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः .
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् .. २..
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् .
कौबेरमथ याम्यं च चक्राते वरुणस्य च .. ३..
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च .
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः .. ४..
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः .
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् .. ५..
तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः .
भवतां नाशयिष्यामि तत्क्षणात्परमापदः .. ६..
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् .
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः .. ७..
देवा ऊचुः .. ८..

नमो देव्यै महादेव्यै शिवायै सततं नमः .
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् .. ९..
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः .
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः .. १०..
कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः .
नैऋत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः .. ११..
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै .
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः .. १२..
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः .
नमो जगत्प्रतिष्टायै देव्यै कृत्यै नमो नमः .. १३..
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६||
या देवी सर्वभूतेषु चेतनेत्यभिधीयते |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९||
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२||
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५||
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८||
या देवी सर्वभूतेषु छायारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१||
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४||
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७||
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०||
या देवी सर्वभूतेषु जातिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३||
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६||
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९||
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२||
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५||
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८||
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१||
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४||
या देवी सर्वभूतेषु दयारूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७||
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०||
या देवी सर्वभूतेषु मातृरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३||
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६||
इन्द्रियाणामधिष्ठात्री भूतानाञ्चाखिलेषु या |
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः || ७७||
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगत् |
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७८-८०||

स्तुता सुरैः पूर्वमभीष्टसंश्रया- त्तथा सुरेन्द्रेण दिनेषु सेविता .
करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः .. ८१..
या साम्प्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते .
या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्त्तिविनम्रमूर्तिभिः .. ८२..

ऋषिरुवाच .. ८३..
एवं स्तवादियुक्त्तानां देवानां तत्र पार्वती .
स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन .. ८४..
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का .
शरीरकोशतश्चास्याः समुद्भूताऽब्रवीच्छिवा .. ८५..
स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः .
देवैः समेतैः समरे निशुम्भेन पराजितैः .. ८६..
शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका .
कौशिकीति समस्तेषु ततो लोकेषु गीयते .. ८७..
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती .
कालिकेति समाख्याता हिमाचलकृताश्रया .. ८८..
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् .
ददर्श चण्डो मुण्डश्व भृत्यौ शुम्भनिशुम्भयोः .. ८९..
ताभ्यां शुम्भाप चाख्याता सातीव सुमनोहरा .
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् .. ९०..
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् .
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर .. ९१..
स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशास्त्विषा
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति .. ९२..
यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो .
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ..

ऐरावतः समानीतो गजरत्नं पुरन्दरात् .
पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः .. ९४..
विमानं हंससंयुक्त्तमेतत्तिष्ठति तेऽङ्गणे .
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् .. ९५
निधिरेष महापद्मः समानीतो धनेश्वरात् .
किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् .. ९६..
छत्रं ते वारूणं गेहे काञ्चनस्नावि तिष्ठति .
तथाऽयं स्यन्दनवरो यः पुरासीत्प्रजापतेः .. ९७..
मृत्योरुत्क्रान्तिदा नाम शक्त्तिरीश त्वया हृता .
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे .. ९८..
निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः .
वह्निश्चापि ददौ तुभ्यमग्निशौचे च वाससी .. ९९..
एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते .
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते .. १००..

ऋषिरुवाच .. १०१..
निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः .
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् .. १०२..
इति चेति च वक्त्तव्या सा गत्वा वचनान्मम .
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु .. १०३..
स तत्र गत्वा यत्रास्ते शैलोद्देशोऽतिशोभने .
सा देवी तं ततः प्राह श्लक्ष्णं मधुरया गिरा .. १०४..

दूत उवाच .. १०५
देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः .
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः .. १०६..
अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु .
निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् .. १०७
मम त्रैलोक्यमखिलं मम देवा वशानुगाः .
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् .. १०८..
त्रैलोक्ये वररत्नानि मम वश्यान्यशोषतः .
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् .. १०९..
क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः .
उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् .. ११०..
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च .
रत्नभूतानि भूतानि तानि मय्येव शोभने .. १११..
स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् .
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् .. ११२..
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् .
भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः .. ११३..
परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् .
एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज .. ११४..

ऋषिरुवाच .. ११५..
इत्युक्त्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ .
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् .. ११६..

देव्युवाच .. ११७..
सत्यमुक्त्तं त्वया नात्र मिथ्या किञ्चित्वयोदितम्
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः .. ११८..
किं त्वत्र यत्परिज्ञातं मिथ्या तत्क्रियते कथम् .
श्रूयतामल्पवुद्धित्वात्प्रतिज्ञा या कृता पुरा .. ११९..
यो मां जयति सङ्ग्रामे यो मे दर्पं व्यपोहति .
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति .. १२०..
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः .
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु .. १२१..

दूत उवाच .. १२२..

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः .
त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः .. १२३..
अन्येषामपि दैत्यानां सर्वे देवा न वै युधि .
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका .. १२४..
इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे .
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् .. १२५..
सा त्वं गच्छ मयैवोक्त्ता पार्श्वं शुम्भनिशुम्भयोः .
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि .. १२६..

देव्युवाच .. १२७..
एवमेतद् बली शुम्भो निशुम्भश्चातिर्वीर्यवान् .
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा .. १२८..
स त्वं गच्छ मयोक्त्तं ते यदेतत्सर्वमादृतः .
तदाचक्ष्वासुरेन्द्राय स च युक्त्तं करोतु यत् .. १२९..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पञ्चमोऽध्यायः .. ..

अथ षष्ठोऽध्यायः ..

ऋषिरुवाच .. १..
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः .
समाचष्ट समागम्य दैत्यराजाय विस्तरात् .. २..
तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः .
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् .. ३..
हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारतिः .
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् .. ४..
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः .
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा .. ५..

ऋषिरुवाच .. ६..
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः .
वृतः षष्टया सहस्राणामसुराणां दृतं ययौ .. ७..
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् .
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः .. ८..
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति .
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् .. ९..

देव्युवाच .. १०..
दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः .
बलान्नयसि मामेवं ततः किं ते करोम्यहम् .. ११..

ऋषिरुवाच .. १२..

इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः .
हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः .. १३..
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम् .
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्त्तिपरश्वधैः .. १४..
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् .
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः .. १५..
कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् .
आक्रान्त्या चाधरेणान्यान् स जघान महासुरान् .. १६..
केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी .
तथा तलप्रहारेण शिरांसि कृतवान्पृथक् .. १७..
विच्छिन्नवाहुशिरसः कृतास्तेन तथापरे .
पापौ च रुधिरं कोष्ठादन्येषां धुतकेसरः .. १८..
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना .
तेन केसरिणा देव्या वाहनेनातिकोपिना .. १९..
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् .
बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः .. २०..
चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः .
आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ .. २१..
हे चण्ड हे मुण्ड बलैर्बहुलैः परिवारितौ .
तत्र गछतं गत्वा च सा समानीयतां लघु .. २२..
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि .
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् .. २३..
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते .
शीग्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् .. २४..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षष्ठोऽध्यायः .. ..



अथ सप्तमोऽध्यायः .. ऋषिरुवाच .. १.. आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः .
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः .. २..
दद्दृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् .
सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने .. ३..
ते दृष्टा तां समादातुमुद्यमञ्चक्रुरुद्यताः .
आकृष्टचापासिधरास्तथान्ये तत्समीपगाः .. ४..
ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति .
कोपेन चास्या वदनं मषीवर्णमभूत्तदा .. ५..
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्दृतम् .
काली करालवदना विनिष्क्रान्तासिपाशिनी .. ६..
विचित्रखट्वाङ्गधरा नरमालाविभूषणा .
द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा .. ७..
अतिविस्तारवदना जिह्वाललनभीषणा .
निमग्नारक्त्तनयना नादापूरितदिङ्मुखा .. ८..
सा वेगेनाभिपतिता घातयन्ती महासुरान् .
सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् .. ९..
पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान् .
समादायैकहस्तेन मुखे चिक्षेप वारणान् .. १०..
तथैव योधं तुरगै रथं सारथिना सह .
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवम् .. ११..
एकं जग्राह केशेषु ग्रीवायामथ चापरम् .
पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् .. १२..
तैर्मुक्त्तानि च शस्त्राणि महास्त्राणि तथासुरैः .
मुखेन जग्राह रुषा दशनैर्मथितान्यपि .. १३..
बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् .
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा .. १४..
असिना निहताः केचित्केचित्खट्वाङ्गताडिताः .
जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा .. १५..
क्षणेन तद्बलं सर्वमसुराणां निपातितम् .
दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् .. १६..
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः .
छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः .. १७..
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् .
बभुर्यथाऽर्कबिम्बानि सुबहूनि घनोदरम् .. १८..
ततो जहासातिरुषा भीमं भैरवनादिनी .
काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला .. १९..
उत्थाय च महासिंहं देवी चण्डमधावत .
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् .. २०..
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् .
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा .. २१..
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् .
मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् .. २२ ..
शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च .
प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् .. २३..
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू .
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि .. २४..

ऋषिरुवाच .. २५..
तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ .
उवाच कालीं कल्याणी ललितं चण्डिका वचः .. २६..
यस्माच्चण्डम् च मुण्डं च गृहीत्वा त्वमुपागता .
चामुण्डेति ततो लोके ख्याता देवी भविष्यसि .. २७..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः .. .

--अथ: अष्टमोऽध्यायः ..
ऋषिरुवाच .. १..
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते .
बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः .. २..
ततः कोपपराधीनचेताः शुम्भः प्रतापवान् .
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह .. ३..
अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः .
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः .. ४..
कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै .
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया .. ५..
कालका दौर्हृदा मौर्याः कालिकेयास्तथासुराः .
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम .. ६..
इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः .
निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः .. ७..
आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् .
ज्यास्वनैः पूरयामास धरणीगगनान्तरम् .. ८..
ततः सिंहो महानादमतीव कृतवान्नृप .
घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् .. ९..
धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा .
निनादैर्भीषणैः काली जिग्ये विस्तारितानना .. १०..
तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् .
देवी सिंहस्तथा काली सरोषैः परिवारिताः .. ११..
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् .
भवायामरसिंहानामतिवीर्यबलान्विताः .. १२..
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः .
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः .. १३..
यस्य देवस्य तद्रूपं यथा भूषणवाहनम् .
तद्वदेव हि तच्छक्त्तिरसुरान्योद्धुमाययौ .. १४..
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः .
आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते .. १५..
माहेश्वरी वृषारूढा त्रिशूलवरधारिणी .
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा .. १६..
कौमारी शक्तिहस्ता च मयूरवरवाहना .
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी .. १७..
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता .
शङ्खचक्रगदाशार्ङ्गखड्गहस्ताऽभ्युपाययौ .. १८..
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः .
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् .. १९..
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः .
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः .. २०..
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता .
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा .. २१..
ततः परिवृतस्ताभिरीशानो देवशक्तिभिः .
हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् .. २२..
ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा .
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी .. २३..
सा जाह धूम्रजटिलमीशानमपराजिता .
दूतस्त्वं गच्छ भगवन्पार्श्वं शुम्भनिशुम्भयोः .. २४..
ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ .
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः .. २५..
त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः .
यूयं प्रयात पातालं यदि जीवितुमिच्छथ .. २६..
बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः .
तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः .. २७..
यतो नियुक्तो दौत्येन

तया देव्या शिवः स्वयम् .

शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता .. २८..
तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः .
अमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता .. २९..
ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः .
ववर्षुरुद्धतामर्षास्तां देवीममरारयः .. ३०..
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् .
चिच्छेद लीलयाध्मातधनुर्मुक्त्तैर्महेषुभिः .. ३१..
तस्याग्रतस्तथा काली शूलपातविदारितान् .
खट्वाङ्गपोथितांश्चारीन्कुर्वंती व्यचरत्तदा .. ३२..
कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः .
ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति .. ३३..
माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी .
दैत्याञ्जघान कौमारी तथा शक्त्याऽतिकोपना .. ३४..
ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः .
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः .. ३५..
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः .
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः .. ३६..
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् .
नारसिंही चचाराजौ नादापूर्णदिगम्बरा .. ३७..
चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः .
पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा .. ३८..
इति मात्रुगणं क्रुद्धं मर्दयन्तं महासुरान् .
दृष्ट्वाऽभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः .. ३९..
पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् .
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः .. ४०..
रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः .
समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुरः .. ४१..
युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः .
ततश्चन्द्रा स्ववज्रेण रक्तबीजमताडयत् .. ४२..
कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् .
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः .. ४३..
यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः .
तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः .. ४४..
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः .
समं मात्रुभिरत्युग्रशस्त्रपातातिभीषणम् .. ४५..
पुनश्च वज्रपातेन क्षतमस्य शिरो यदा .
ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः .. ४६..
वैष्णवी समरे चैनं चक्रेणाभिजघान ह . गदया ताडयामास ऐन्द्री तमसुरेश्वरम् .. ४७..
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः .
सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः .. ४८..
शक्त्या जघान कौमारी वाराही च तथाऽसिना .
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् .. ४९..
स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् .
मातॄः कोपसमाविष्टो रक्तबीजो महासुरः .. ५०..
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि .
पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः .. ५१..
तैश्चासुरास्रुक्सम्भूतैरसुरैः सकलं जगत् .
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् .. ५२..
तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्त्वरा .
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु .. ५३..
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् .
रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता .. ५४..
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् .
एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति .. ५५..
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे .
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् .. ५६..
मुखेन काली जगृहे रक्तबीजस्य शोणितम् .
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् .. ५७..
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि .
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् .. ५८..
यतस्ततस्तद्वक्रेण चामुण्डा सम्प्रतीच्छति .
मुखे समुद्गता येऽस्या रक्तपातान्महासुराः .. ५९..
तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् .. ६०..
देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः .
जघान रक्तबीजं तं चामुण्डापीतशोणितम् .. ६१..
स पपात महीप्रिष्ठे शस्त्रसङ्घसमाहतः .
नीरक्तश्च महीपाल रक्तबीजो महासुरः .. ६२..
ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप .
तेषां मात्रुगणो जातो ननर्तासृङ्मदोद्धतः .. ६३..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नाम अष्टमोऽध्यायः .. ..


अथ नवमोऽध्यायः ..
राजोवाच .. १..

विचित्रमिदमार्ख्यातं भगवन् भवता मम .
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् .. २..
भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते .
चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः .. ३..

ऋषिरुवाच .. ४..
चकार कोपमतुलं रक्तबीजे निपातिते .
शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे .. ५..
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् .
अभ्यधावन्निशुम्भोऽथ मुरव्ययासुरसेनया .. ६..
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः .
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः .. ७..
आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः .
निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः .. ८..
ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः .
शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः .. ९..
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः .
ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ .. १०..
निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् .
अताडयन्मूर्घ्नि सिंहं देव्या वाहनमुत्तमम् .. ११..
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् .
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् .. १२..
छिन्ने चर्मणि खड्गे च शक्त्तिं चिक्षेप सोऽसुरः .
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् .. १३..
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः .
आयान्तं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् .. १४..
आविद्धयाथ गदां सोऽपि चिक्षेप चण्डिकां प्रति .
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता .. १५..
ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् .
आहस्य देवी बाणौघैरपातयत भूतले .. १६..
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे .
भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् .. १७..
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः .
भुजैरष्टाभिरतुलैर्व्याप्याशेषं वभौ नभः .. १८..
तमायान्तं समालोक्य देवी शङ्खमवादयत् .
ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् .. १९..
पूरयामास ककुभो निजघण्टास्वनेन च .
समस्तदैत्यसैन्यानां तेजोवधविधायिना .. २०.
. ततः सिंहो महानादैस्त्याजितेभमहामदैः .
पूरयामास गगनं गां तथोपदिशो दश .. २१..
ततः काली समुत्पत्य गगनं क्षमामताडयत् .
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः .. २२..
अट्टाट्टहासमशिवं शिवदूती चकार ह .
तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ .. २३..
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा .
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः .. २४..
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा .
आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया .. २५..
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् .
निर्घातनिःस्वनो घोरो जितवानवनीपते .. २६..
शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् .
चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः .. २७..
ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् .
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह .. २८..
ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः .
आजघान शरैर्देवीं कालीं केसरिणं तथा .. २९..
पुनश्च कृत्वा बाहूनामयुतं दनुजेश्चरः .
चक्रायुधेन दितिजश्छादयामास चण्डिकाम् .. ३०..
ततो भगवती क्रुद्धा दुर्गा दुर्गातिर्नाशिनी .
चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान् .. ३१..
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् .
अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः .. ३२..
तस्यापतत एवाशु गदां चिच्छेद चण्डिका .
खड्गेन शितधारेण स च शूलं समाददे .. ३३..
शूलहस्तं समायान्तं निशुम्भममरार्दनम् .
हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका .. ३४..
भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः .
महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् .. ३५..
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः .
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि .. ३६..
ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् .
असुरांस्तांस्तथा काली शिवदूती तथापरान् .. ३७..
कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः .
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः .. ३८..
माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे .
वाराहीतुण्डघातेन केचिच्चूर्णाकृता भुवि .. ३९..
खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः .
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे .. ४०..
केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् .
भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः .. ४१..
इति श्रिमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये निशुम्भवधो नाम नवमोऽध्ययः ..



.. अथ दशमोऽध्यायः ..
ऋषिरुवाच .. १..
निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् . हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः .. २..
बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह . अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी .. ३..
देव्युवाच .. ४..
एकैवाहं जगत्यत्र द्वितीया का ममापरा .
पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः .. ५..
ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् .
तस्या देव्यास्तनौ जग्मुरेकैवासीतदाम्बिका .. ६..
देव्युवाच .. ७..
अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता .
तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव .. ८..

ऋषिरुवाच .. ९..
ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः .
पश्यतां सर्वदेवानामसुराणां च दारुणाम् .. १०..
शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्रैव दारुणैः .
तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् .. ११..
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका .
बभञ्च तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः .. १२..
मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी .
बभञ्च लीलयैवोग्रहुङ्कारोच्चारणादिभिः .. १३..
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः .
सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः .. १४..
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे .
चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् .. १५..
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् .
अभ्यदावतदा देवीं दैत्यनामधिपेश्वरः .. १६..
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका .
धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् .. १७..
हताश्वः ( ? ) स तदा दैत्यश्छिन्नधन्वा विसारथिः .
जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः .. १८..
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः .
तथापि सोऽभ्यधावतां मुष्टिमुद्यम्य वेगवान् .. १९..
स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः .
देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् .. २०..
तलप्रहाराभिहतो निपपात महीतले .
स दैत्यराजः सहसा पुनरेव तथोत्थितः .. २१..
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः .
तत्रापि सा निराधारा युयुधे तेन चण्डिका .. २२..
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् .
चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् .. २३..
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह .
उत्पाठ्य भ्रामयामास चिक्षेप धरणीतले .. २४..
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगतः .
अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया .. २५..
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् .
जगत्यां पातयामास भित्वा शूलेन वक्षसि .. २६..
स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः .
चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् .. २७..
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि .
जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः .. २८..
उत्पातमेघाः सोल्का ये प्रागासंस्ते शं ययुः .
सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते .. २९..
ततो देवगणाः सर्वे हर्षनिर्भरमानसाः .
बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः .. ३०..
अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः .
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः .. ३१..
जज्वलुश्चाग्नयः शान्ताः शान्तदिग्जनितस्वनाः .. ३२..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः ..



.. अथ एकादशोऽध्यायः ..

ऋषिरुवाच .. १.. 

देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् .
कात्यायनीं तुष्टुवुरिष्टलाभा- द्विकासिवक्त्राब्जविकासिताशाः
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य .
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य .. ३..
आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि .
अपां स्वरूपस्थितया त्वयैत- दाप्यायते कुत्स्नमलङ्घयवीर्ये .. ४..
त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया .
सम्मोहितं देवि समस्तमेत- त्वं वै प्रसन्ना भुवि मुक्तिहेतुः .. ५..
विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु .
त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरापरोक्तिः .. ६..
सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी .
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः .. ७..
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते .
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते .. ८..
कलाकाष्ठादिरूपेण परिणामप्रदायिनि .
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते .. ९..
सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथर्साधिके .
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते .. १०..
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि .
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते .. ११..
शरणागतदीनार्तपरित्राणपरायणे .
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते .. १२..
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि .
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते .. १३..
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि .
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते .. १४..
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे .
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते .. १५..
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे .
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते .. १६..
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे .
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते .. १७..
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे .
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते .. १८..
किरीटिनि महावज्र सहस्रनयनोज्ज्वले .
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते .. १९..
शिवदूतीस्वरूपेण हतदैत्यमहाबले .
घोररूपे महारावे नारायणि नमोऽस्तु ते .. २०..
दंष्ट्राकरालवदने शिरोमालाविभूषणे .
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते .. २१..
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे .
महारात्रि महामाये नारायणि नमोऽस्तु ते .. २२..
मेधे सरस्वति वरे भूति बाभ्रवि तामसि .
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते .. २३..
सर्वस्वरूपे सर्वेशे सर्वेशक्तिसमन्विते .
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते .. २४..
एतते वदनं सौम्यं लोचनत्रयभूषितम् .
पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते .. २५..
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् .
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते .. २६..
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् .
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव .. २७..
असुरामृग्वसापङ्कचचिंतस्ते करोज्ज्वलः .
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् .. २८..
रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् .
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति .. २९..
एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् .
रूपैरनेकैर्बहुधात्ममूर्तिम् कृत्वाम्बिके तत्प्रकरोति कान्या .. ३०..
विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या .
ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् .. ३१..
रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र .
दावानलो यत्र तथाब्धिमद्ये तत्र स्थिता त्वं परिपासि विश्वम् .. ३२..
विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् .
विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः .. ३३..
देवि प्रसीद परिपालयनोर्इ- भीतेर्नित्यं यथासुरवधादधुनैव सद्यः .
पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् .. ३४..
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि .
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव .. ३५..

देव्युवाच .. ३६..
वरदाहं सुरगणा वरं यन्मनसेच्छथ .
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् .. ३७..

देवा ऊचुः .. ३८..
सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि .
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् .. ३९..


देव्युवाच .. ४०..
वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे .
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ..४१..
नन्दगोपगृहे जाता यशोदागर्भसम्भवा .
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी .. ४२..
पुनरप्यतिरौद्रेण रूपेण पृथिवीतले .
अवतीर्य हनिष्यामि वैप्रचितांस्तु दानवान् .. ४३..
भक्षयन्त्याश्च तानुग्रान् वैप्रचितान् महासुरान् .
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः .. ४४..
ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः .
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् .. ४५..
भूश्च शतवार्षिक्यामनावृष्टयामनम्भसि .
मुनिभिः संस्तुता भूमौ सम्भविष्यामययोनिजा .. ४६..
ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् .
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः .. ४७..
ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः .
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः .. ४८..
शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि .
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ..४९..
दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति .
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले .. ५०..
रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् .
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः .. ५१..
भीमादेवीति विख्यातं तन्मे नाम भविष्यति .
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति .. ५२..
तदाऽहं भ्रामरं रूपं कृत्वासङ्खयेयषट्पदम् .
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् .. ५३..
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः .
इत्थं यदा यदा बाधा दानवोत्था भविष्यति .. ५४..
तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् .. ५५..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणिस्तुतिर्नाम एकादशोऽध्यायः .. ..

अथ द्वादशोऽध्यायः ..
देव्युवाच .. १..
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः .
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् .. २..
मधुकैटभनाशं च महिषासुरगातनम् .
कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः .. ३..
अष्टभ्यां च चतुर्दश्यां नवम्यां चैकचेतसः .
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुतमम् .. ४..
न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः .
भविष्यति न दारिद्रयं न चैवेष्टवियोजनम् .. ५..
शत्रुतो न भयं तस्य दस्युतो वा न राजतः .
न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति .. ६..
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः .
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् .. ७..
उपसर्गानशेषांस्तु महामारीसमुद्भवान् .
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम .. ८..
यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम .
सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् .. ९..
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे .
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च .. १०..
जानताजानता वापि बलिपूजां तथा कृताम् .
प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् .. ११..
शरत्काले महापूजा क्रियते या च वार्षिकी .
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः .. १२..
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः .
मनुष्यो मत्प्रसादेन भविष्यति न संशयः .. १३..
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पतयः शुभाः .
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् .. १४..
रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते .
नन्दते च कुलं पुंसां माहात्म्यं मम श्रृण्वताम् .. १५..
शान्तिकमणि सर्वत्र तथा दुःस्वप्नदर्शने .
ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम .. १६..
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः .
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते .. १७..
बालग्रिहाभिभूतानां बालानां शान्तिकारकम् .
सङ्घातभेदे च नृणां मैत्रीकरणमुतमम् .. १८..
दुर्वृतानामशेषाणां बलहानिकरं परम् .
रक्षोभूतपिशाचानां पठनादेव नाशनम् .. १९..
सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् .
पशुपुष्पार्ध्यधूपैश्च गन्धदीपैस्तथोतमैः .. २० ..
विप्राणां भौजनर्होमैः प्रोक्षणीयैरहर्निशम् .
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या .. २१..
प्रीतिर्मे क्रियते सास्मिन्सकृत्सुचरिते श्रुते .
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति .. २२..
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम .
युद्धेषु चरितं यन्मे दुष्टदैत्यनिवर्हणम् .. २३..
तस्मिञ्च्छ्रुते वैरिकृतं भयं पुंसां न जायते .
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः .. २४..
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् .
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः .. २५..
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः .
सिंहव्याघ्नानुयातो वा वने वा वनहस्तिभिः .. २६..
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा .
आधूर्णितो वा वातेन स्थितः पोते महार्णवे .. २७..
पतत्सु चापि शस्त्रेषु सङ्ग्रामे भृशदारुणे .
सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा .. २८..
स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् .
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा .. २९..
दूरादेव पलायन्ते स्मरतश्चरितं मम .. ३०..
ऋषिरुवाच .. ३१..
इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा .
पश्यतामेव देवानां तत्रैवान्तरधीयत .. ३२..
तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा .
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः .. ३३..
दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि .
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे .. ३४..
निशुम्भे च महावीर्ये शेषाः पातालमाययुः .. ३५..
एवं भगवती देवी सा नित्यापि पुनः पुनः .
सम्भूय कुरुते भूप जगतः परिपालनम् .. ३६..
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते .
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति .. ३७..
व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर .
महाकाल्या महाकाले महामारीस्वरूपया .. ३८..
सैव काले महामारी सैव सृष्टिर्भवत्यजा .
स्थितं करोति भूतानां सैव काले सनातनी .. ३९..
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे .
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते .. ४०..
स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा .
ददाति वितं पुत्रांश्च मतिं धर्मे गतिं शुभाम् .. ४१..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये फलस्तुतिर्नाम द्वादशोऽध्यायः .. ..

अथ त्रयोदशोऽध्यायः ..
ऋषिरुवाच .. १..
एतते कथितं भूप देवीमाहात्म्यमुत्तमम् .. २..
एवम्प्रभावा सा देवी ययेदं धार्यते जगत् .
विद्या तथैव क्रियते भगवद्विष्णुमायया .. ३..
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः .
मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे .. ४..
तामुपैहि महाराज शरणं परमेश्वरीम् .
आराधिता सैव नृणां भोगस्वर्गापवर्गदा .. ५..
मार्कण्डेय उवाच .. ६..
इति तस्य वचः श्रुत्वा सुरथः स नराधिपः .
प्रणिपत्य महाभागं तमृषिं संशितव्रतम् .. ७..
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च .
जगाम सद्यस्तपसे स च वैश्यो महामुने .. ८..
सन्दर्शनार्थमम्बाया नदीपुलिनसंस्थितः .
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् .. ९..
तो तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् .
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः .. १०..
निराहारौ यताहारौ तन्मनस्कौ समाहितौ .
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् .. ११..
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः .
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका .. १२..
देव्युवाच .. १३..
यत्प्राथ्यर्ते त्वया भूप त्वया च कुलनन्दन .. १४..
मतस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् .. १५..
मार्कण्डेय उवाच .. १६..
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि .
अत्र चैव निजं राज्यं जतशत्रुबलं बलात् .. १७..
सोऽपि वेश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः .
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् .. १८..
देव्युवाच .. १९..
स्वल्पैरहोभिर्नृपते स्वराज्यं प्राप्स्यते भवान् .. २०..
हत्वा रिपूनस्खलितं

तव तत्र भविष्यति .. २१..

मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः .. २२..
सावर्णिको नाम मनुर्भवान्भुवि भविष्यति .. २३..
वैश्यवर्य त्वया यश्च वरोऽस्मतोऽभिवाञ्छितः .. २४..
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति .. २५..
मार्कण्डेय उवाच .. २६..
इति दत्वा तयोर्देवी यथाभिलषितं वरम् .
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता .. २७..
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः .
सूर्याज्जन्म समासाद्य सावर्णिभर्विता मनुः .. २८..
सावर्णिभर्विता मनुः क्लीं ओम् .. २९..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः .. ३०..

श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् ॐ तत् सत् ॐ .. ..

हेर्नुहोस[सम्पादन]

अपराधक्षमापण स्तोत्र