मध्य चरित: संशोधनहरू बीचको भिन्नता
अथ मध्यमचरितम् .. महालक्ष्मीध्यानम् ॐ अक्षस्रक्प... को साथमा पृष्ठ शृजना भयो |
कुनै सम्पादन सारांश छैन |

पङ्क्ति १: | पङ्क्ति १: | ||
अथ मध्यमचरितम् .. |
अथ मध्यमचरितम् ..

महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् . |
महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् .

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् .. |
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ..

ॐ ऋषिरुवाच .. १.. |
ॐ ऋषिरुवाच .. १..

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा . |
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .

महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २.. |
महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् . |
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् .

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३.. |
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३..

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् . |
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् .

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४.. |
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४..

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् . |
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् .

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५.. |
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५..

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च . |
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च .

अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६.. |
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६..

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि . |
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि .

विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७.. |
विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७..

एतद्वः कथितं सर्वममरारिविचेष्टितम् . |
एतद्वः कथितं सर्वममरारिविचेष्टितम् .

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८.. |
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..

इत्थं निशम्य देवानां वचांसि मधुसूदनः . |
इत्थं निशम्य देवानां वचांसि मधुसूदनः . |

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९.. |
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९..

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः . |
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः . |

निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. |
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०..

अन्येषां चैव देवानां शक्रादीनां शरीरतः . |
अन्येषां चैव देवानां शक्रादीनां शरीरतः .

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११.. |
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् . |
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् .

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२.. |
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् . |
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् .

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३.. |
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३..

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् . |
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् .

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४.. |
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४..

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् . |
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् .

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५.. |
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५..

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा . |
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा .

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६.. |
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६..

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा . |
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा .

नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७.. |
नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७..

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च . |
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च .

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८.. |
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८..

ततः समस्तदेवानां तेजोराशिसमुद्भवाम् . |
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् .

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९.. |
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९..

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् . |
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् .

चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०.. |
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०..

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः . |
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः .

मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१.. |
मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१..

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः . |
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः .

ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२.. |
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ . |
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ .

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३.. |
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३..

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः . |
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः .

कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४.. |
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४..

क्षीरोदश्चामलं हारमजरे च तथाम्बरे . |
क्षीरोदश्चामलं हारमजरे च तथाम्बरे .

चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५.. |
चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५..

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु . |
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु .

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६.. |
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६..

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च . |
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च .

विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७.. |
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७..

अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् . |
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् .

अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८.. |
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८..

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् . |
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् .

हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९.. |
हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९..

ददावशून्यं सुरया पानपात्रं धनाधिपः . |
ददावशून्यं सुरया पानपात्रं धनाधिपः .

शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०.. |
शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०..

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् . |
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् .

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१.. |
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१..

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः . |
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः .

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२.. |
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२..

अमायतातिमहता प्रतिशब्दो महानभूत् . |
अमायतातिमहता प्रतिशब्दो महानभूत् .

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३.. |
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३..

चचाल वसुधा चेलुः सकलाश्च महीधराः . |
चचाल वसुधा चेलुः सकलाश्च महीधराः .

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४.. |
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४..

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः . |
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः .

दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५.. |
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५..

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः . |
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः .

आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६.. |
आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६..

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः . |
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः .

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७.. |
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् |
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८.. |
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् . |
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९.. |
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९..

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् . |
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् .

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०.. |
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..

युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः . |
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः .

रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१.. |
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१..

अयुध्यतायुतानां च सहस्रेण महाहनुः . |
अयुध्यतायुतानां च सहस्रेण महाहनुः .

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२.. |
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२..

अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे . |
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे .

गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३.. |
गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३..

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत . |
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत .

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४.. |
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४..

युयुधे संयुगे तत्र रथानां परिवारितः . |
युयुधे संयुगे तत्र रथानां परिवारितः .

अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५.. |
अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५..

युयुधुः संयुगे देव्या सह तत्र महासुराः . |
युयुधुः संयुगे देव्या सह तत्र महासुराः .

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६.. |
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६..

हयानां च वृतो युद्धे तत्राभून्महिषासुरः . |
हयानां च वृतो युद्धे तत्राभून्महिषासुरः .

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७.. |
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७..

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः . |
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः .

केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८.. |
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८..

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः . |
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः .

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९.. |
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९..

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी . |
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी .

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०.. |
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०..

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी . |
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी .

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१.. |
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१..

चचारासुरसैन्येषु वनेष्विव हुताशनः . |
चचारासुरसैन्येषु वनेष्विव हुताशनः .

निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२.. |
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२..

त एव सद्यस्सम्भूता गणाः शतसहस्रशः . |
त एव सद्यस्सम्भूता गणाः शतसहस्रशः .

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३.. |
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३..

नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः . |
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः .

अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४.. |
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४..

मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे . |
मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे .

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५.. |
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..

खड्गादिभिश्च शतशो निजघान महासुरान् . |
खड्गादिभिश्च शतशो निजघान महासुरान् .

पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६.. |
पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६..

असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् . |
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् .

केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७.. |
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७..

विपोथिता निपातेन गदया भुवि शेरते . |
विपोथिता निपातेन गदया भुवि शेरते .

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८.. |
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८..

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि . |
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि .

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९.. |
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९..

शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः . |
शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः .

केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०.. |
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०..

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः . |
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः .

विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१.. |
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१..

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः . |
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः .

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२.. |
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२..

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः . |
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः .

ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३.. |
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३..

कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः . |
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः .

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४.. |
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४..

पातितै रथनागाश्वैरसुरैश्च वसुन्धरा . |
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा .

अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५.. |
अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५..

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः . |
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः .

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६.. |
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६..

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका . |
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका .

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७.. |
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७..

स च सिंहो महानादमुत्सृजन् धुतकेसरः . |
स च सिंहो महानादमुत्सृजन् धुतकेसरः .

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८.. |
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८..

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः . |
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः .

यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. .. |
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. .. |
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..

अथ तृतीयोऽध्यायः .. |
अथ तृतीयोऽध्यायः ..

ऋषिरुवाच .. १.. |
ऋषिरुवाच .. १..

निहन्यमानं तत्सैन्यमवलोक्य महासुरः . |
निहन्यमानं तत्सैन्यमवलोक्य महासुरः .

सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २.. |
सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २..

स देवीं शरवर्षेण ववर्ष समरेऽसुरः . |
स देवीं शरवर्षेण ववर्ष समरेऽसुरः .

यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३.. |
यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३..

तस्य छित्वा ततो देवी लीलयैव शरोत्करान् . |
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् .

जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४.. |
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४..

चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् . |
चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् .

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५.. |
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५..

स छिन्नधन्वा विरथो हताश्वो हतसारथिः . |
स छिन्नधन्वा विरथो हताश्वो हतसारथिः .

अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६.. |
अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६..

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि . |
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि .

आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७.. |
आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७..

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन . |
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन .

ततो जग्राह शूलं स कोपादरुणलोचनः .. ८.. |
ततो जग्राह शूलं स कोपादरुणलोचनः .. ८..

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः . |
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः .

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९.. |
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९..

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत . |
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत .

तच्छूलं शतधा तेन नीतं स च महासुरः .. १०.. |
तच्छूलं शतधा तेन नीतं स च महासुरः .. १०..

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ . |
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ .

आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११.. |
आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११..

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् . |
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् .

हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२.. |
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२..

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः . |
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः .

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३.. |
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३..

ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः . |
ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः .

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४.. |
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४..

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ . |
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ .

युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५.. |
युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५..

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा . |
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा .

करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६.. |
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६..

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः . |
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः .

दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७.. |
दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७..

देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् . |
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् .

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८.. |
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८..

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् . |
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् .

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९.. |
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९..

बिडालस्यासिना कायात् पातयामास वै शिरः . |
बिडालस्यासिना कायात् पातयामास वै शिरः .

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०.. |
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०..

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः . |
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः .

माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१.. |
माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१..

कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् . |
कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् .

लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२.. |
लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२..

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च . |
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च .

निःश्वासपवनेनान्यान्पातयामास भूतले .. २३.. |
निःश्वासपवनेनान्यान्पातयामास भूतले .. २३..

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः . |
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः .

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४.. |
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४..

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः . |
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः .

श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५.. |
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५..

वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत . |
वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत .

लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६.. |
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६..

धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः . |
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः .

श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७.. |
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..

इति क्रोधसमाध्मातमापतन्तं महासुरम् . |
इति क्रोधसमाध्मातमापतन्तं महासुरम् .

दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८.. |
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८..

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् . |
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् .

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९.. |
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९..

ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः . |
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः .

छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०.. |
छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०..

तत एवाशु पुरुषं देवी चिच्छेद सायकैः . |
तत एवाशु पुरुषं देवी चिच्छेद सायकैः .

तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१.. |
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१..

करेण च महासिंहं तं चकर्ष जगर्ज च . |
करेण च महासिंहं तं चकर्ष जगर्ज च .

कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२.. |
कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२..

ततो महासुरो भूयो माहिषं वपुरास्थितः . |
ततो महासुरो भूयो माहिषं वपुरास्थितः .

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३.. |
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३..

ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् . |
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् .

पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४.. |
पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४..

ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः . |
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः .

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५.. |
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५..

सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः . |
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः .

उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६.. |
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६..

देव्युवाच .. ३७.. |
देव्युवाच .. ३७..

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् . |
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् .

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८.. |
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..

ऋषिरुवाच .. ३९.. |
ऋषिरुवाच .. ३९..

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् . |
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् .

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् |
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्.. ४०..

.. ४०.. |

अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१..

अर्धनिष्क्रान्त |
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः .

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः . |

अथ चतुर्थोऽध्यायः .. |
अथ चतुर्थोऽध्यायः ..

ऋषिरुवाच .. १.. |
ऋषिरुवाच .. १..

शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या . |
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २.. |
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..

देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् . |
देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् .

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३.. |
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..

यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च . |
यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च .

सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४.. |
सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४..

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः . |
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः .

श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५.. |
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..

किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि . |
किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि .

किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६.. |
किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..

हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा . |
हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा .

सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७.. |
सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..

यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि . |
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि .

स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८.. |
स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..

या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः . |
या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९.. |
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९..

शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् . |
शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् .

देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०.. |
देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०..

मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा . |
मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा .

श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११.. |
श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..

ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् . |
ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .

अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२.. |
अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः . |
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .

प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३.. |
प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..

देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि . |
देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि .

विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४.. |
विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..

ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः . |
ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः .

धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५.. |
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..

धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति . |
धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति .

स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६.. |
स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि . |
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि .

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७.. |
दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७..

एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् . |
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् .

संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८.. |
संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८..

दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् . |
दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९.. |
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् . |
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .

यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०.. |
यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०..

दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः . |
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .

वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१.. |
वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..

केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र . |
केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र .

चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२.. |
चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..

त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा . |
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .

नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३.. |
नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके . |
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .

घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४.. |
घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४..

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे . |
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५.. |
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते . यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६.. |
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .

यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके . करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७.. |
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .

करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

ऋषिरुवाच .. २८.. |
ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः . |
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९.. |
अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता . |
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता .

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०.. |
प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

देव्युवाच .. ३१.. |
देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२.. |
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२..

ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३.. |
ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते . |
भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते .

यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४.. |
यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि . |
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५.. |
संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..

यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने . |
यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .

तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६.. |
तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६..

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७.. |
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

ऋषिरुवाच .. ३८.. |
ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः . |
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः .

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९.. |
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा . |
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०.. |
देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..

पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् . |
पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् .

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१.. |
वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..

रक्षणाय च लोकानां देवानामुपकारिणी . |
रक्षणाय च लोकानां देवानामुपकारिणी .

तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. .. |
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. .. |
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ..

==हेर्नुहोस्== |
==हेर्नुहोस्== |
०८:३७, ७ जुलाई २०१० जस्तै गरी पुनरावलोकन
अथ मध्यमचरितम् ..
महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् .
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ..
ॐ ऋषिरुवाच .. १..
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .
महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् .
जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३..
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् .
पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४..
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् .
त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५..
सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च .
अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६..
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि .
विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७..
एतद्वः कथितं सर्वममरारिविचेष्टितम् .
शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..
इत्थं निशम्य देवानां वचांसि मधुसूदनः .
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९..
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः .
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०..
अन्येषां चैव देवानां शक्रादीनां शरीरतः .
निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..
अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् .
ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् .
एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३..
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् .
याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४..
सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् .
वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५..
ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा .
वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६..
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा .
नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७..
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च .
अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८..
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् .
तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९..
शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् .
चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०..
शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः .
मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१..
वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः .
ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..
कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ .
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३..
समस्तरोमकूपेषु निजरश्मीन् दिवाकरः .
कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४..
क्षीरोदश्चामलं हारमजरे च तथाम्बरे .
चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५..
अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु .
नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६..
अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च .
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७..
अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् .
अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८..
अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् .
हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९..
ददावशून्यं सुरया पानपात्रं धनाधिपः .
शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०..
नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् .
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१..
सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः .
तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२..
अमायतातिमहता प्रतिशब्दो महानभूत् .
चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३..
चचाल वसुधा चेलुः सकलाश्च महीधराः .
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४..
तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः .
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५..
सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः .
आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६..
अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः .
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..
पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्
क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..
दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९..
शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् .
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..
युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः .
रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१..
अयुध्यतायुतानां च सहस्रेण महाहनुः .
पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२..
अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे .
गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३..
वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत .
बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४..
युयुधे संयुगे तत्र रथानां परिवारितः .
अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५..
युयुधुः संयुगे देव्या सह तत्र महासुराः .
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६..
हयानां च वृतो युद्धे तत्राभून्महिषासुरः .
तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७..
युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः .
केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८..
देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः .
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९..
लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी .
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०..
मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी .
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१..
चचारासुरसैन्येषु वनेष्विव हुताशनः .
निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२..
त एव सद्यस्सम्भूता गणाः शतसहस्रशः .
युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३..
नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः .
अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४..
मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे .
ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..
खड्गादिभिश्च शतशो निजघान महासुरान् .
पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६..
असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् .
केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७..
विपोथिता निपातेन गदया भुवि शेरते .
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८..
केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि .
निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९..
शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः .
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०..
शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः .
विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१..
एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः .
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२..
कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः .
ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३..
कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः .
तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४..
पातितै रथनागाश्वैरसुरैश्च वसुन्धरा .
अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५..
शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः .
मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६..
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका .
निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७..
स च सिंहो महानादमुत्सृजन् धुतकेसरः .
शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८..
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः .
यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..
अथ तृतीयोऽध्यायः ..
ऋषिरुवाच .. १..
निहन्यमानं तत्सैन्यमवलोक्य महासुरः .
सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २..
स देवीं शरवर्षेण ववर्ष समरेऽसुरः .
यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३..
तस्य छित्वा ततो देवी लीलयैव शरोत्करान् .
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४..
चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् .
विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५..
स छिन्नधन्वा विरथो हताश्वो हतसारथिः .
अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६..
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि .
आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७..
तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन .
ततो जग्राह शूलं स कोपादरुणलोचनः .. ८..
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः .
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९..
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत .
तच्छूलं शतधा तेन नीतं स च महासुरः .. १०..
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ .
आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११..
सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् .
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२..
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः .
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३..
ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः .
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४..
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ .
युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५..
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा .
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६..
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः .
दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७..
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् .
बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८..
उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् .
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९..
बिडालस्यासिना कायात् पातयामास वै शिरः .
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०..
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः .
माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१..
कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् .
लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२..
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च .
निःश्वासपवनेनान्यान्पातयामास भूतले .. २३..
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः .
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४..
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः .
श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५..
वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत .
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६..
धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः .
श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..
इति क्रोधसमाध्मातमापतन्तं महासुरम् .
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८..
सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् .
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९..
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः .
छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०..
तत एवाशु पुरुषं देवी चिच्छेद सायकैः .
तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१..
करेण च महासिंहं तं चकर्ष जगर्ज च .
कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२..
ततो महासुरो भूयो माहिषं वपुरास्थितः .
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३..
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् .
पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४..
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः .
विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५..
सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः .
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६..
देव्युवाच .. ३७..
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् .
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..
ऋषिरुवाच .. ३९..
एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् .
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्.. ४०..
ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः .
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१..
अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः .
तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् .
प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३..
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः .
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..